Saturday, 11 March 2017

संस्कृत वाङ्गमयम्

व्यकरणम् 



  • पाणिनी
  पाणिनेः जन्म क्रिस्तपूर्वसप्तमशताब्द्यां शालातुरग्रामे अभवत् । अतः तस्य 'शालातुरीयः' इति नाम अति प्रसिद्धम् अस्ति । वर्तमानकाले पाकिस्तानदेशे स्थितः लहुरनामकः ग्रामः एव शलातुरग्रामः अस्ति । पाणिनेः मातुः नाम दाक्षी । अतः एव सः दाक्षीपुत्रः इत्यपि संस्कृतज्ञाः तं प्रीत्या आह्वयन्ति । 'पणिनः' इति तस्य पितुः नाम । अतः तस्य नाम 'पाणिनिः' अभवत् । शालङ्किः इत्यपि पाणिनेः पितुः नाम आसीदिति वाराणसेयः विद्वान् श्रीगोपालशास्त्रिमहोदयः "प्रशिक्षणसंविधानम्" इति पुस्तके व्यलिखत् । अयं कृशाश्वपुत्रस्य देवलनाम्नः पौत्र इति John Garratt महाशयस्य Classical Dictionary of India पुस्तके उल्लिखितमस्ति । आचार्यः वर्षः पाणिनेः गुरुः आसीत् । पाणिनिः 'नलन्द'विश्वविद्यालये शिक्षां प्राप्तवान् । तस्य गुरुः आसीत् उपवर्षाचार्यस्य सहोदरः वर्षोपाध्यायवर्यः ।
  • कात्यायन


   कात्यायनः वार्तिककारः । वररुचिः इति एतस्य अपरं नाम । एषः कौशाम्बीनिवासी । सोमदत्तः एतस्य पिता । एषः दाक्षिणात्यः आसीत् । भाष्यकारः पतञ्जलिः एतं 'भगवान्’ इति, ’आचार्यः’ इति च आदरेण निर्दिशति । एतस्य कालः क्रि.पू. ४ शतकं स्यात् इति पण्डिताः भावयन्ति । वार्तिकानि नाम सूत्राणां व्याख्यानरूपाणि । सूत्रेषु प्रयुक्तानां पदानां प्रयोजनचिन्तनम्, अनुक्तानां पदानां योजनं, दुरुक्तानां पदानां समीकरणं च करोति वार्तिकम् । वार्तिकानि पृथग्ग्रन्थरूपेण न उपलभ्यन्ते । महाभाष्ये(पतञ्जलिकृते) तानि सम्मिलितानि सन्ति । कात्यायनस्य वार्तिकशैली सूत्रशैलीम् एव अनुकरोति । कात्यायनेन व्याकरणस्य समृद्धिः विशेषतः वर्धिता अस्ति ।
    केरलराज्यस्य प्रसिद्धप्राचिनकथायां वररुचिः इति नाम प्रधानपत्रेण श्रूयते। संस्कृतभाषायां दशाधिकेषु पुराणेतिहासलेखेषु वररुचिः इति नाम दृश्यते । कात्यायनः इति नाम अपि षोढषसंस्कृतग्रन्थेषु अस्ति । खगोलशास्त्रस्य गणितस्य च दशाधिकग्रन्थानां सम्बन्धे वररुचेः नाम संलग्नमस्ति ।
    अयं वररुचिः खगोलशास्त्रज्ञः दक्षिणभारते प्रसिद्धस्य वाक्यपञ्चाङ्गस्य मूलभूतस्य वाक्यकारणम् इति ग्रन्थस्य रचयिता । सः तमिळुनाडुप्रान्तीयः इति तस्य कृतेः आरम्भे एव स्पष्टं कृतवान् । अयं ग्रन्थः क्रि.श.१२८२तमे वर्षे तमिळुनाडुराज्यस्य काञ्जीप्रदेशे लिखितः इत्यपि ज्ञायते ।

  • पतञ्जलि 
   माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते । त्रिषु मुनिषु अन्यतमः महामुनिः पतञ्जलिः अप्यन्यतमः इति जगतीतले को वा न विजानीते? भगवान् पतञ्जलिः पाणिनीयाष्टके महतीं व्याख्यां व्यलेखीत् । सेयं व्याख्या महाभाष्यम् इत्याख्या जगति प्रसिद्धाऽस्ति । एषः पतञ्जलिः विश्वविश्रुतः भाषाविदासीत् । महाभाष्यं व्याकरणसन्निभं कठिनं दुरूहञ्च विषयं सारल्येन ज्ञापयितुं समर्थः इत्यत्र सर्वेऽपि विद्वांसः एकमतयः । समस्ते वैयाकरणसमुदाये महाभाष्यं महताऽदरेण प्रामाणिकत्वेन च परिगण्यते ।

वेदाः

  • ऋग्वेदः
 सनातन धर्मस्य मूलग्रन्थः। यत्रार्थवशेन पादव्यवस्थाऽस्ति तेषां छन्दोबद्धानां मन्त्राणां नाम ‘ऋक्’ इति वेद्यम् । ऋचां समूह एव ‘ऋग्वेद' इति पदेन व्यवह्रियते । चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् विद्यते ।  विद् ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वणः इति ॥  ऋग्वेदस्य ऋचायाः लक्षणं जैमिनीयन्यायसूत्रे एवं प्रतिपादितं यथा – “पादेनार्थेन चोपेता वृत्तवद्धा मन्त्राः । “ एतेषां ऋचाणामुत्पत्तिः विराटयज्ञपुरुषाद् वभुव इति पुरुषसूक्ते उच्यते । यथा –
तस्माद् यज्ञात् सर्वहुतः ऋचः सामानि जज्ञिरे ।
छन्दांसि जज्ञिरे तस्मात् यजु- स्तस्मादजायत ॥
  ऋग्वेदस्य समयः – योरुपीय विदुषां मतानुसारं ऋग् वेदस्य रचनाकालः ४००० वर्ष पूर्वमासीत् । परन्तु अस्य कृते किमपिप्रमाणम् नैवउपलभ्यते ऋग्वेदस्य ऋचः पारसीयाणां अर्वेस्ता पुस्तकेन सह समानाः भवन्ति । पारसीयानां धर्मग्रन्थेन जण्डावेस्ता नामकेन सह अपि ऋचां समानता वर्त्तते । अतः आर्याणां रचितवेदस्य समतः योरुपीयाणां समसामयिकः इति अनुमीयते ।
  • यजुर्वेदः
  यज्ञयागादिक्रियाकलापानुरोधेन मन्त्राणां सन्निवेशोऽस्ति, अतः स ‘यजुःवेद' इति निगद्यते । यजुः इत्येतत्पदं यज् धातोः उसि प्रत्यये कृते निष्पद्यते । यजूंषि गद्यानि । अध्वर्युणा यज्ञे उपयुज्यमाना मन्त्रा एवात्र यजुर्वेदे सङ्कलिताः, यज्ञस्य वास्तविकं विधानमध्वर्युरेव करोति, अतोऽयं यजुर्वेदो यज्ञविधेरतिसन्निकृष्टं सम्बन्धं रक्षति । यजुर्वेदो द्विप्रकारकः, कृष्णयजुः शुक्लयजुश्च । पौराणिकाः कथयन्ति – व्यासो वैशम्पायनाय वेदं प्रोवाच, स स्वशिष्याय याज्ञवल्क्याय । कुतोऽपि कारणाद् रुष्टो वैशम्पायनो याज्ञवल्क्यमुवाच – देहि मदधीतं वेदमिति । याज्ञवल्क्यो गुरुवचनपालनाय ततोऽधीतं वेदं सद्योवान्तवान् । अन्ये वैशम्पायनशिष्यास्तित्तिरिरुपं धृत्वा याज्ञवल्क्येन वान्तं वेदं गृहीतवन्तः । स एवायं वान्तगृहीतो वेदः कृष्णयजुर्वेदः ।
  वैशम्पायने कुपिते ततोऽधीतं वेदं विसृज्य याज्ञवल्क्यः पुनर्वेदाधिगतये सूर्यमाराधयामास, ततश्च वेदमापततोऽयं वेदः शुक्लयजुर्वेदनाम्नाऽप्रथत । अनयोर्वेदयोर्महदन्तरम् । शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवला मन्त्रा विद्यन्ते, कृष्णयजुर्वेदे तु विनियोग वाक्यानि मन्त्राश्च । अतोऽमिश्रितरूपतया शुक्लयजुर्वेदः, मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि लोकाः कथयन्ति । सोऽयं यजुर्वेदः ४० अध्यायान्, ३०३ अनुवाकान्, १९७५ कण्डिका (मन्त्रान्), २९६२५ शब्दान्, ८८८७५ अक्षराणि च बिभर्ति । अस्य वेदस्य प्रथमेऽध्याये दर्शपौर्णमासौ, द्वितीये पिण्डपितृयज्ञः, तृतीयेऽग्निहोत्रं चातुर्मास्येष्टिः, चतुर्थाध्यायादष्टादशाध्यायपर्यन्तम् अग्निः चयनम्, उखाभरणम्, चितयः रुद्रहः, शतरुद्रियम् वसोर्धारा, राष्ट्रभृच्च । एकोनविंशतितमाध्यायात् परिशिष्टमारभ्यते, विशे एकविंशे च सोमसम्पादनविधिः, तदनु पञ्चविंशतिपर्यन्तमश्वमेधः ततः शेषे भागे पुरुषमेधसर्वमेधपुतृमेधादिविवरणञ्च प्रपञ्चितम् । अन्तिमश्चाध्याय ईशावास्योपनिषद्रूपः । शुक्लयजुर्वेदस्य वाजसनेयिसंहिता कथ्यते । तादृशनामकरणे बीजं त्विदं कथ्यते यत् याज्ञवल्क्येनाराधितः सूर्यो वाजी भूत्वा तस्मै वेदं प्रोक्तवान् अतस्तदुक्ता संहिता वाजसनेयी संहिता समाख्याता । शुक्लयजुर्वेदस्य माध्यन्दिनशाखा कण्वशाखा चेति द्वे शाखे । प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे । अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः , बहुष्वंशेषु तुल्यता वर्त्तते । कृष्णयजुर्वेदस्य चतस्रः शाखा-प्राप्यन्ते –
  1. तैत्तिरीयशाखा –इयं प्रधानशाखा, अत्र सप्तखण्डाः, ते च खण्डाः अष्टकशब्देन काण्डशब्देन च व्यवह्रियन्ते । प्रतिकाण्डं कतिपयेऽध्याया, ये प्रपाठकनाम्ना ख्याताः । इमे प्रपाठका बहुष्वनुवाकेषु विभक्ताः सन्ति ।
  2. मैत्रायणीसंहिता इमे द्वे अपि संहिते तैत्तिरीय –संहितामनुकुरुतः,
  3. काठकसंहिता केवलं क्रमे यत्र तत्र पार्थक्यं विद्यते ।
   आध्वर्युकर्मसम्पादनाय यजुषां संकलनं यत्रास्ति सा यजुर्वेदसंहिता इत्युच्यते । यजुष् शब्दस्य व्याख्या भिन्नभिन्नरूपेण भवति । यथा- अनियताक्षरावसानो यजुः, गद्यात्मको यजुः,शेषे यजुश्शब्द इत्यादयः । परन्तु एतेषां तात्पर्यं एकमेव भवति यत् ऋग् सामादिभ्यः भिन्नानां गद्यात्मकमन्त्राणां अभिधानमेव यजुः ।
  • सामवेदः
  सामवेद इत्यत्र गीतिरूपा मन्त्राः विद्यन्ते। अतः सः उपासनाकाण्डपरो वेदः गीयते । यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः । अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः । ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते । सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः ।
  • अथर्ववेदः
 अभिचारक्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते । अथर्ववेदे २० काण्डानि, ७३१ सूक्तानि, ५९८७ मन्त्रा विद्यन्ते । एषु मन्त्रेषु द्वादशशतमन्त्रा ऋग्वेदेऽपि दृश्यन्ते । विंशतिकाण्डे १५३ सूक्तानि सन्ति, तेषु द्वादशसूक्तानि अतिरिच्य शेषाणि सर्वाण्यपि ऋग्वेद स्य दशममण्डले समुपलभ्यन्ते । अथर्ववेदस्य नव शाखा आसन्, परं सम्प्रति शौनकपिप्पलादसमाख्ये द्वे एव शाखे प्राप्येते । प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता, पिप्पलादशाखासंहिताऽपि अनतिचिरेणैव मुद्रिता । अथर्ववेदस्य उपलब्धेषु अनेकाभिधानेषु अथर्ववेद-ब्रह्मवेद-अंगिरोवेद-अथर्वागिरेवेदादीनि नामानि प्रमुखतां भजन्ते । "थर्व" धातुः कौटिल्यार्थकः तथा हिंसावाचकः अस्ति । अत एव "अथर्व" शब्दस्य अर्थोऽस्ति यत् अकुटिलवृत्या अहिंसवृत्या च मनसः स्थैर्यप्राप्तकर्ता व्यक्तिः । अथर्वांगिरस्पदस्य व्याख्याकरणे सति प्रतीयते यत् ॠषिद्वयेन दृष्टानां मन्त्राणां समूहरूपः एव अथर्ववेदः । अथर्वदृष्टाः मन्त्राः शान्तिप्रपुष्टिकर्मयुक्ताः सन्ति, परन्तु अंगिरेदृष्टाः मन्त्राः आभिचारिकाः सन्ति । वेदेऽस्मिन् मारणमोहनोच्चाटनादीनां ज्वरापस्मारादिरोगविनाशकानाञ्च मन्त्राणां संग्रहोस्ति ।
    
      ब्रह्मपुत्रेण अथर्वेण समाहृता इति अथर्ववेदः अन्वर्थं नाम । अथर्वाङ्गिराः, ब्रह्मवेदः इति नामान्तराणि । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति । भूर्जपत्रेषु शारदालिप्यां लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरीयैः सम्पादितम् अस्ति । तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थसङ्ग्रहे अस्ति । अथर्ववेद ऐहिकफलदायकोऽस्ति । 
अथर्ववेदस्य ऋत्विक् ब्रह्मा वर्तते । प्रस्थानभेदे लिखितमस्ति यत्–“अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिपौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यंतविलक्षण एव “ । कुमारिलभट्टेनोच्यते –“ शान्तिपुष्ट्याभिचारार्थी ह्येकब्रह्मर्त्विगाश्रितः क्रियास्तन्न प्रमीयन्तेऽत्रामयमेवात्मीयगोचरा” इति । अथर्ववेदः ब्रह्मवेद – अंगिरोवेद अथर्वाङ्गिरसवेदादिनामभिः प्रसिद्धः वर्तते । अथर्वस्यार्थ अकुटिलता अहिंसा वा भवति ।